"न भूसुधियो"रिति निषेधे प्राप्ते--दृन्करपुनः। दृन्भ्वमिति। यणा पूर्वरूपं बाध्यत इति भावः। दृन्भ्व इति। शसि यणा पूर्वसवर्णदीर्घो बाध्यत इति भावः। करात् करे वा भवतीति करभूः, दृन्भूवदित्यभिप्रेत्याह--करभ्वं करभ्व इति। "दृन्करे"त्युदाह्मतवार्तिके दीर्घमध्यकारशब्दपाठ इति मतान्तरं। तत्राह--दीर्घेति। स्वार्थिक इति। स्वस्याः प्रकृतेरर्थः स्वार्थः, तत्र भवः स्वार्थिकः। अध्यात्मादित्वाठ्ठञ्। प्रज्ञाद्यणिति। "प्रज्ञादिभ्योऽणि"ति प्रज्ञादिभ्यः स्वार्थेऽण्विधानादिति भावः। दीर्घपाठे करपूर्वस्य उवडेव। ह्यस्वपाठे करपूर्वस्य यणेवेति विवेकः। पुनर्भवतीति पुनर्भूः। ननु "पुनर्भूर्दिधिषूरूढा" इति कोशात्पुनर्भूशब्दस्य स्त्रीलिङ्गत्वात्स्त्रीलिङ्गाधिकार एव तन्निरूपणं युक्तमित्यत आह--पुनर्भूर्योगिकः पुंसीति। पुनर्भवतीति क्रियानिमित्तस्य पुनर्भूशब्दस्य पुँल्लिङ्गत्वमप्यस्तीत्यर्थः। दृग्भू इति। दृशो भवतीति दृग्भूः। कारायां भवतीति काराभूः। कारा=बन्धनालयः। स्वयंभूवदिति। तत्र "न भूसुधियो"रिति यणः प्रतिषेधात्, प्रतिप्रसवाऽभावाच्चेति भावः। इत्यूदन्ताः। अथ ऋदन्ताः। धातेति। "डुधाञ् धारणपोषणयोः" तत्र तृन् तज्वा स्यात्। क्रोष्टुशब्दवदनङ्दीर्घ सुलोपनलोपाः। हे धातरिति। "ऋदुशनसि"त्यत्रासंबुद्धावित्यनुवृत्तेर्नानङ्। "ऋतो ङी"ति गुणोऽकारः, रपरत्वं, हल्ङ्यादिलोपः, विसर्गः। "अप्तृन्" इति दीर्घस्तु न, असंबुद्धावित्यनुवृत्तेः। धाताराविति। ङिसर्वनामस्थानयोः "ऋतो ङी"ति गुणोऽकारः। रपरत्वम्, "अप्तृन्" इति दीर्घश्च। धातारः। धातारम्। धातारौ। शसि पूर्वसवर्णदीर्घ ॠकारः, नत्वम्। धातृ()न्। टा-यण्। धात्रा। ङे-यण्। धात्रे। ङसिङसोः-ऋत उत्, रपरत्वम्, सलोपः, विसर्गः-धातुः। धातुः। धात्रोः धात्रोः। आमि "ह्यस्वनद्यापः" इति नुट्। "नामी"ति दीर्घः। नकारस्य रेफषकाराभ्यां परत्वाऽभावादप्राप्ते णत्वे।
ऋवर्णान्नस्य। ऋवर्णात्परस्येत्यर्थः। इदं तु वार्तिकं णत्वविधायकसूत्राणां सर्वेषां शेषभूतम्। ङौ "ऋतो ङी"ति गुणोऽकारः, रपरत्वम्। धातरि। धातृषु। नच दातृशब्दस्य हिरण्यगर्भसंज्ञाशब्दादौणादिकशंसिक्षदादितृन्तृजन्तत्वादिह कथमप्तृन्निति दीर्घः,औणादिकतृन्तृजन्तेषु नप्त्रादिसप्तानामेव दीर्घ इति नियमादिति वाच्य, धाञ्धातोः शंसिक्षदादित्वकल्पनायां प्रमाणाऽभावेन धातृशब्दस्यौणादिकत्वाऽभावादिति भावः। एवं नप्त्रादय इति। नप्तृनेष्टुत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृशब्दा धातृशब्दवदित्यर्थः। उद्गातृशब्दस्य औणादिकतृन्तृजन्तस्य नप्त्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्गातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्तंप्राक्। तदेतत्समारयति-उद्गाताराविति। पितेति। धातृवदनङादि। सर्वनामस्थाने तु "ऋतो ङी"ति गुणोऽकारः, रपरत्वम्। "अप्तृन्" इति दीर्घस्तु नेत्याह--व्युत्पत्तीति। पातीति पिता। तृच्प्रत्ययः, इट् आकारलोपश्चेति व्युत्पत्तिर्बोध्या। अव्युत्पत्तिपक्षे तु अप्तृन्तृजादिष्वनन्तर्भावाद्दीर्घशङ्कैव नास्तीति भावः। पितरौ पितरः। पितरम् पितरौ पितृ()नित्यादि धातृवत्। एवं जामातृभ्रात्रादय इति। उणादिषु "नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ" इति सूत्रे पितृजामातृभ्रातृशब्दाः व्युत्पादिताः। तत्र पितृशब्दस्य व्युत्पत्तिरुक्ता। भ्राजेस्तृनि तृचि वा जलोपः। भ्राता। जायां मातीति जामाता। तृन्प्रत्ययः। तृज्वा यालोपश्च। अनयोरप्यौणादिकयोर्नप्त्रादिष्वनन्तर्भावान्न दीर्घ इत्यर्थः। आदिना मन्तृ हन्तृ इत्यनयोग्र्रहणं, तयोरुणादिषु "तृन्तृचौ शंसिक्षदादिभ्यः" इति प्रकरणे बहुलमन्यत्रापि इत्यत्र उदाह्मतत्वात्। नेति। नृशब्दो मनुष्यवाची। तस्मात्सुः। "ऋदुशन"सित्यनङ्। "अप्तृ"न्निति सूत्रेऽनन्तर्भावा"त्सर्वनामस्थाने चे"ति नान्तत्वप्रयुक्तो दीर्घः। हल्ङ्यादिलोपः। नलोपः ना इति रूपम्। नरा नर इति। "ऋतो ङी"ति गुणो रपरः। अप्तृन्नाद्यनन्तर्भावान्नान्तत्वाऽभावाच्च न दीर्घः। हे न इति। "ऋतो ङी"ति गुणो रपरः। हल्ङ्यादिलोपो विसर्गश्च। नरम्। नरौ। शसि पूर्वसवर्णदीर्घो ॠकारः, नत्वम्, नृ()न्। टादावचि यणि रेफः। न्रा। न्रे। ङसिङसोः ऋत् उत्, रपरः, सलोपः, विसर्गश्च। नुः। नुः। न्रोः। आमि नुट्, "नामी"ति नित्यं दीर्घे प्राप्ते-।
हन्करपुनःपूर्वस्य भुवो यण्वक्तव्यः
। हम्भूरिति। तरुः। सर्पजातिभेद इत्येके। कपिरित्यन्ये। वक्तव्य इति। "वर्षाभ्वश्चे"ति चकारस्याऽनुक्तसमुच्चयार्थत्वादिति भावः। एवञ्च "ओः सुपि"इति प्राप्तस्य यणो "न भूसुधियो"रिति निषेधे "वर्षाहन्करपुनः पूर्वस्य भुवः"इत्येतद्धिध्यर्थमिति स्थितम्। अत्र नव्याः--"वर्षाहन्करे"त्यस्य नियमार्थतां स्वीकृत्य "न भूसुधियो रित्यत्र भूग्रहणं त्युक्तं शक्यमिति, तन्न, "हन्करपुनः पूर्वस्य चेद्भवे"दिति विपरितनियमापत्तेः। तथाच "पुनर्भ्वौ"इत्यादि न सिद्धयेदिति। दीर्घपाठ इति। "हन्कारे"--ति पाठे इत्यर्थः। एवंच ह्यस्वपाठे कारपूर्वस्योवहेव , दीर्घपाठे तु करपूर्वस्योवङिति विवेकः। "पुनर्भूदिंधिषूरूढा द्वि"रित्यमरोक्तेः पुनर्भूशब्दो नित्यस्त्रीलिङ्गः। तथा च स्त्रीलिङ्गप्रकतरण एव वक्तुमुचितो न त्वत्रेत्याशङ्कायामाह----यौगिकः पुंसीति। "पुनर्भवतीति पुनर्भू"रिति क्रियाशब्दः पुंलिङ्गेऽप्यस्तीत्यर्थः। स्वयंभूवदिति। प्राचा तु "हम्भू""काराम्भू"शब्दौ वर्षाभूवदाह्मतौ, तदुपेक्ष्यमिति भावः। इत्यूदन्ताः। धातेति। दधातीति धाता अब्जयोनिः। डुधाञस्तृच् तृन् वा। अनङ्दीर्घसुलोपनलोपः।ऋवर्णान्नस्य णत्वं वाच्यम्। व्युत्पत्तिपक्ष इति। अव्युत्पत्तिपक्षे दीर्घशङ्कैव नास्ति, अबादिष्वपठनादिति भावःष नेति। "नयतेर्डिच्चे"ति ऋपत्र्ययान्तो "नृ"शब्दः। अनङादि प्राग्वत्।